वांछित मन्त्र चुनें

अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे । यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥

अंग्रेज़ी लिप्यंतरण

adha tyaṁ drapsaṁ vibhvaṁ vicakṣaṇaṁ vir ābharad iṣitaḥ śyeno adhvare | yadī viśo vṛṇate dasmam āryā agniṁ hotāram adha dhīr ajāyata ||

पद पाठ

अध॑ । त्यम् । द्र॒प्सम् । वि॒भ्व॑म् । वि॒ऽच॒क्ष॒णम् । विः । आ । अ॒भ॒र॒त् । इ॒षि॒तः । श्ये॒नः । अ॒ध्व॒रे । यदि॑ । विशः॑ । वृ॒णते॑ । द॒स्मम् । आर्याः॑ । अ॒ग्निम् । होता॑रम् । अध॑ । धीः । अ॒जा॒य॒त॒ ॥ १०.११.४

ऋग्वेद » मण्डल:10» सूक्त:11» मन्त्र:4 | अष्टक:7» अध्याय:6» वर्ग:9» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अध) अनन्तर (त्यं विभ्वं विचक्षणं द्रप्सम्) उस महान् सावधान करनेवाले प्रकाशरूप हर्षप्रद मोक्षपद को या उस महान् सावधानता से रक्षणीय पृथिवीपतिपद-राजपद को (अध्वरे) अध्यात्मयज्ञ में या राजसूययज्ञ में (विः श्येनः इषितः आभरत्) अर्चना करनेवाला-स्तुतिकर्ता प्रशंसनीयगतिप्रवृत्तिवाला पुण्यवान् आत्मा या राजा परमात्मा से प्रेरित हुआ (यदि दस्मम् अग्निं होतारम् आर्याः विशः वृणते) जब दर्शनीय सुखदाता ज्ञानप्रकाशक परमात्मा या राजा को श्रेष्ठ मानव या प्रजाजन उपासित करते हैं या वरते हैं (अध धीः अजायत) अनन्तर वह परमात्मा उपासक जनों या प्रजाजनों का आधार प्रसिद्ध होता है ॥४॥
भावार्थभाषाः - उपासक आत्मा अध्यात्मयज्ञ में प्रशंसनीय प्रवृत्तिवाला होकर ईश्वर से प्रेरित हुआ महान् हर्षप्रद मोक्षपद को प्राप्त करता है। जब दर्शनीय सुखदाता परमात्मा की उपासक उपासना करते हैं, तो वह उनका आधार होकर उनके अन्दर साक्षात् होता है। राजा राजसूययज्ञ में प्रशंसनीय गतिप्रवृत्तिवाला होकर परमात्मा से प्रेरित हुआ भूपतिपद-राजपद को प्राप्त करता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अध) अनन्तरम् (त्यं विभ्वं विचक्षणं द्रप्सम्) तं महान्तं सावधानकर्त्तारं प्रकाशरूपं हर्षकरं मोक्षपदम् “दृप् हर्षे” [दिवा०] ततः सः प्रत्यय औणादिकः, तथा महान्तं सावधानतया रक्षणीयं पार्थिवं पृथिवीपतिपदम् “द्रप्सं पार्थिवं भूगोलम्” [यजु०१३।२ दयानन्दः] (अध्वरे) अध्यात्मयज्ञे (विः-श्येनः-इषितः-आभरत्) अर्चयिता-स्तुतिकर्त्ता “वेति-अर्चतिकर्मा” [निघ०२।६] शंसनीयगतिकः-पुण्यवान्-इन्द्रः-आत्मा “इन्द्रो वा एतेन साम्ना श्येनो भूत्वा असुरानपवयत्” [जै०३।१५८] परमात्मना प्रेरितः-आसमन्ताद् धारयति (यदि दस्मम्-अग्निं होतारम्-आर्याः-विशः-वृणते) यदा हि दर्शनीयं ज्ञानप्रकाशकं परमात्मानं सर्वसुखदातारं वा श्रेष्ठा उपासका जनाः प्रजा वा सम्भजन्ति वरयन्ति वा (अध धीः-अजायत) अनन्तरं स परमात्माऽऽस्तिकानां राजा वा प्रजानामाधारः “धीङ्-आधारे” [दिवादिः] अजायत-प्रसिद्धो भवति ॥४॥